|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.257. अध्यायः 257
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ब्राह्मणमहिमप्रकाशनाय कार्तवीर्यार्जुनकथाकथनारम्भः॥ 1 ॥ दत्तात्रेयाद्वरलाभगर्वितेन तेन दिग्जययात्रायां क्वापि पुरुषे स्वसाम्याभावकथने अशरीरवाण्या ब्राह्मणानामुत्कर्षकथनम्॥ 2 ॥ तेन दर्पात्तदवज्ञाने वायुनापि ब्राह्मणानामेवोत्कर्षे कथते तेन वायुंप्रति तत्प्रकाशनप्रार्थना॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप।
कं वा धर्मोदयं मत्वा तानर्चसि महामते॥ 13-257-1(91756)
भीष्म उवाच। 13-257-2x(7691)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पवनस्य च संवादमर्जुनस्य च भारत॥ 13-257-2(91757)
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः॥ 13-257-3(91758)
स तु रत्नाकरवतीं सप्तद्वीपां ससागराम्।
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः॥ 13-257-4(91759)
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे।
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च॥ 13-257-5(91760)
आराधयामास च तं कृतवीर्यात्मजो मुनिम्।
न्यमन्त्रयत संतुष्टो द्विजश्चैनं वरैस्त्रिभिः॥ 13-257-6(91761)
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्।
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा॥ 13-257-7(91762)
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे।
विक्रमेणि महीं कृत्स्नां जयेयं संशितव्रत॥ 13-257-8(91763)
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः।
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम॥ 13-257-9(91764)
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित।
अनुशाशन्तु मां सन्तो मिथ्यावृत्तं त्वदाश्रयम्॥ 13-257-10(91765)
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः॥ 13-257-11(91766)
गतः स रथमास्थाय ज्वलनार्कसमद्युतिम्।
अब्रवीद्वीर्यसंमोहात्को वाऽस्ति सदृशो मम॥ 13-257-12(91767)
धैर्यैर्वीर्यैर्यशःशौर्यौर्विक्रमेणौजसाऽपि वा।
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी॥ 13-257-13(91768)
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम्।
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः॥ 13-257-14(91769)
अर्जुन उवाच। 13-257-15x(7692)
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये।
कर्म्णा मनसा वाचा न मत्तोस्ति वरो द्विजः॥ 13-257-15(91770)
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः।
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते॥ 13-257-16(91771)
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्।
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि॥ 13-257-17(91772)
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्।
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः॥ 13-257-18(91773)
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा।
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे॥ 13-257-19(91774)
कथितं त्वनयाऽसत्यं गायन्त्या कन्यया दिवि।
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः॥ 13-257-20(91775)
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन।
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम्॥ 13-257-21(91776)
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्।
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम्॥ 13-257-22(91777)
अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी।
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत॥ 13-257-23(91778)
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु।
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति॥ 13-257-24(91779)
अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः।
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः॥ 13-257-25(91780)
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः।
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम्॥ 13-257-26(91781)
अर्जुन उवाच। 13-257-27x(7693)
अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः।
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम्॥ 13-257-27(91782)
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम्।
अपां वै सदृशं वह्नेः सूर्यस्य नभसोऽपि वा॥ ॥ 13-257-28(91783)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-257-1 व्युष्टिं समृद्धिं फलं वा। कं वा कर्मोदयं मत्वा इति ङ.झ. पाठः॥ 7-257-4 स च रक्षार्थमवनिं सप्तद्वीपां इति क.पाठः॥ 7-257-5 दत्तात्रेयाय कारणे इति ङ.झ.पाठः॥ 7-257-7 सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा इति ङ.झ.पाठः॥ 7-257-16 पूर्वो वादो ब्रह्मोत्तरः ब्राह्मणाधिक्यवचनं पूर्वपक्षः क्षत्रियाधिक्यं सिद्धान्त इत्यर्थः। हेतुयुक्तौ प्रजापालनेन हेतुना युक्तौ सहितौ तौ ब्राह्मणक्षत्रियौ पूर्वं ब्रह्मोत्तरो वादः क्षत्रियः क्षत्रियोत्तरः मयोक्तो हेतुयुक्तौ चेति क.पाठः॥ 7-257-17 ब्रह्मा वेदो यज्ञश्च अध्यापनयाजनार्थ एव उपधा च्छलं येषां ते तथा क्षत्रियान्खादन्ति उपजीवन्ति॥ 7-257-20 चर्मवाससः अजिनवस्त्रान्। गायत्र्या कन्यया दिवीति झ.पाठः॥ 7-257-22 ब्रह्मोत्तरं सन्तम्॥ 7-257-23 निशाचरी अन्तर्हिता सरस्वती॥ 7-257-27 पृथिवीभूतं पृथिव्यात्मकं भूतम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|